हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Aranya Kanda Sarga 21 – अरण्यकाण्ड एकविंशः सर्गः (२१)
॥ खरसन्धुक्षणम् ॥
स पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां खरः ।
उवाच व्यक्तया वाचा तामनर्थार्थमागताम् ॥ १ ॥
मया त्विदानीं शूरास्ते राक्षसा रुधिराशनः ।
त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः ॥ २ ॥
भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः ।
घ्नन्तोऽपि न निहन्तव्या न न कुर्युर्वचो मम ॥ ३ ॥
किमेतच्छ्रोतुमिच्छामि कारणं यत्कृते पुनः ।
हा नाथेति विनर्दन्ती सर्पवल्लुठसि क्षितौ ॥ ४ ॥
अनाथवद्विलपसि नाथे तु मयि संस्थिते ।
उत्तिष्ठोत्तिष्ठ मा भैषीर्वैक्लब्यं त्यज्यतामिह ॥ ५ ॥
इत्येवमुक्ता दुर्धर्षा खरेण परिसान्त्विता ।
विमृज्य नयने सास्रे खरं भ्रातरमब्रवीत् ॥ ६ ॥
अस्मीदानीमहं प्राप्ता हृतश्रवणनासिका ।
शोणितौघपरिक्लिन्ना त्वया च परिसान्त्विता ॥ ७ ॥
प्रेषिताश्च त्वया वीर राक्षसास्ते चतुर्दश ।
निहन्तुं राघवं क्रोधान्मत्प्रियार्थं सलक्ष्मणम् ॥ ८ ॥
ते तु रामेण सामर्षाः शूलपट्टिशपाणयः ।
समरे निहताः सर्वे सायकैर्मर्मभेदिभिः ॥ ९ ॥
तान् दृष्ट्वा पतितान्भूमौ क्षणेनैव महाबलान् ।
रामस्य च महत्कर्म महांस्त्रासोऽभवन्मम ॥ १० ॥
अहमस्मि समुद्विग्ना विषण्णा च निशाचर ।
शरणं त्वां पुनः प्राप्ता सर्वतोभयदर्शिनी ॥ ११ ॥
विषादनक्राध्युषिते परित्रासोर्मिमालिनि ।
किं मां न त्रायसे मग्नां विपुले शोकसागरे ॥ १२ ॥
एते च निहता भूमौ रामेण निशितैः शरैः ।
येऽपि मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः ॥ १३ ॥
मयि ते यद्यनुक्रोशो यदि रक्षस्सु तेषु च ।
रामेण यदि ते शक्तिस्तेजो वाऽस्ति निशाचर ॥ १४ ॥
दण्डकारण्यनिलयं जहि राक्षसकण्टकम् ।
यदि रामं ममामित्रं न त्वमद्य वधिष्यसि ॥ १५ ॥
तव चैवाग्रतः प्राणांस्त्यक्ष्यामि निरपत्रपा ।
बुद्ध्याऽहमनुपश्यामि न त्वं रामस्य सम्युगे ॥ १६ ॥
स्थातुं प्रतिमुखे शक्तः सबलश्च महात्मनः ।
शूरमानी न शूरस्त्वं मिथ्यारोपितविक्रमः ॥ १७ ॥
मानुषौ यौ न शक्नोषि हन्तुं तौ रामलक्ष्मणौ ।
रामेण यदि ते शक्तिस्तेजो वाऽस्ति निशाचर ॥ १८ ॥
दण्डकारण्यनिलयं जहि तं कुलपांसन ।
निःसत्त्वस्याल्पवीर्यस्य वासस्ते कीदृशस्त्विह ॥ १९ ॥
अपयाहि जनस्थानात्त्वरितः सहबान्धवः ।
रामतेजोऽभिभूतो हि त्वं क्षिप्रं विनशिष्यसि ॥ २० ॥
स हि तेजः समायुक्तो रामो दशरथात्मजः ।
भ्राता चास्य महावीर्यो येन चास्मि विरूपिता ॥ २१ ॥
एवं विलप्य बहुशो राक्षसी विततोदरी ।
भ्रातुः समीपे दुःखार्ता नष्टसञ्ज्ञा बभूव ह ।
कराभ्यामुदरं हत्वा रुरोद भृशदुःखिता ॥ २२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकविंशः सर्गः ॥ २१ ॥
www.sanatanadharm.com